Tuesday, 16 July 2019

का कन्या (Kaa kanyaa)

लेखकः – विद्वान् नरसिंह भट्टः   
 
आबहोः कालात् भारतीया संस्कृतिः जगति विशिष्टस्थानापन्ना अस्ति । तत्र च कारणं प्रकृतिः । “ द्विधा कृत्वा आत्मनो देहम् अर्धेन पुरुषोऽभवत् अर्धेन नारी” इति उपनिषदपि प्रकृतेः प्राधान्यं वर्णयति । प्रकृतिं विना पुरुषस्य अचेतनत्वम् । अतः अस्माकं परम्परापि प्रकृतेः चेतनदायित्वं प्रतिपादयति । सा च प्रकृतिः प्रथमतया ‘कन्या’ इति व्यपदिश्यते । एवं च कन्यायाः स्वरूपं स्वभावः कार्यक्षेत्रं च अस्माभिः अनुसन्धानीयम् ।
‘कन् दीप्तौ’ इति धातुना सह ‘यक्’ इति उणादिप्रत्यययोगेन कन्याशब्दस्य ‘कुमारी’ इत्यर्थः । ‘कन्यायाः कनीन च’ इति पाणिनिसूत्रप्रकारेण न ङीष् प्रत्ययः अपि तु टाप् । कन्याशब्दः द्वादशराशिष्वन्यतमा एका महौषधिः सुता इत्याद्यर्थेषु परिदृश्यते । प्रधानतया दीप्तिमती इत्यर्थः स्वीक्रियते सर्वत्र । अत एव अस्माभिः श्रद्धालुभिः प्रातरुत्थाय अयं श्लोकः पठ्यते यत् “ अहल्या द्रौपदी सीता तारा मण्डोदरी तथा । पञ्चकन्याः स्मरेन्नित्यं महापातकनाशनम् ॥“ इति । एतादृशाः कन्याः अस्माकम् आदर्शाः । किमर्थम् एताः कन्याः प्रातस्मरणीयाः इत्यत्र अष्टाङ्गयोगविज्ञानमन्दिरस्य श्रीरङ्गमहागुरवः प्रतिपादयन्ति स्म यत् “प्रायः विवाहात् परं स्त्रीणां विशिष्टा दीप्तिः प्रणश्यति । परन्तु अहल्यादीनां स्त्रीणां विवाहात्परमपि दीप्तिः देदीप्यमाना आसीत् । एतदेव वैशिष्ट्यम् एतासाम् अहल्यादीनाम् । यदा आत्मदीप्तिं प्रति आकर्षन्ति तदा ताः कन्याः प्रातस्मरणीयाः भवन्ति” इति । अत एव भारतीयपरम्परायाम् अनुपमत्वं कन्यायाः अस्तीति न विविदिषन्ति विबुधाः ।
भारतीयानां विवाहसन्दर्भे अयम् अंशः स्पष्टीभविष्यति यत् तत्र कन्यापिता एवं सङ्कल्पयति “ लक्ष्मीरूपाम् इमां कन्यां श्रीधररूपिणे वराय प्रदास्यामि” इति । कन्यायां लक्ष्मीं पार्वतीं वाणीं वा भावयन्ति । अपि च यत्र स्त्रीणां विषये समाजस्य गौरवं भवति तत्र देवा अपि नृत्यन्ति । अतः तासां प्रथमोपस्थापनं सर्वत्र भवति तथाहि- मातृदेवो भव । लक्ष्मीनारायणाभ्यां नमः उमामहेश्वराभ्यां नमः वाणीविधातृभ्यां नमः अरुन्धतीवसिष्ठाभ्यां नमः इत्यादि रूपेण । एवं च कन्यायाः कान्तिमत्वात् आत्मदीप्तिकर्षणत्वादिगुणगणत्वात् च महत्वं जगति प्रसारयामः । 

To know more about Astanga Yoga Vijnana Mandiram please visit our Official Website and Facebook page: