Wednesday, 7 August 2019

कमलस्य भगवद्विशेषणत्वं किमर्थम्? (Kamalasya bhagavdvisheshanathvam kimartham?)

लेखकः – विद्वान् नरसिंह भट्टः   


संस्कृतभाषायां कमलम् इति पदार्थः अनेकपदैः व्यपदिश्यते। तस्य षोडशपर्यायपदानि अमरकोशे अमरसिंहः जगाद । तदित्थम्- ‘वा पुंसि पद्मं नलिनम् अरविन्दं महोत्पलम् । सहस्रपद्मं कमलं शतपत्रं कुशेशयम्। पङ्केरुहं तामरसं सारसं सरसीरुहम् । बिसप्रसूनराजीवपुष्कराऽम्भोरुहाणि च॥‘ इति । ‘कमलनयनः’ ‘अरविन्दलोचनः’ ‘सारसवदनः’ ‘राजीवलोचनः’ इत्यादिरूपेण कमलस्य पर्यायपदान्युपयुज्य उपमानरूपेण भाषाव्यवहारः दृश्यते । किमर्थं कमलपर्यायपदम् उपयुज्य सर्वत्र भगवन्तं वर्णयन्ति ? अत्र लोकालोकातीता दृष्टिः अस्ति वा ? कमलस्य व्याप्तिः का ? इति एकदा श्रीरङ्गमहागुरोः कश्चन शिष्यः तं गुरुं परिपृच्छति - “करकमलः पादकमलः” इत्यादिना भगवद्विषये कमलमेव विशेषणरूपेण कथयन्ति किमर्थम् ? इति । तदा महागुरुः कमलस्य लौकिकालौकिकदृष्ट्या किमर्थम् विशेषणत्वेन उपमानत्वेन च उपयुज्यते इति यद्प्रवचनं अददात् तत्तु अनितरसाधारणम् ।

कमलम् उपमानम्

प्रथमतया उपमानस्य उपयोगः कुत्र भवति इति पश्यामः । वस्तुद्वयं वर्तते । एकं वस्तुज्ञातमिव । अपरं च अज्ञातमेव । ज्ञाताज्ञातयोः पदार्थयोः कश्चनसमानांशः विद्यते । ज्ञातविषयस्य अंशम् आदृत्य अज्ञातविषयस्य ज्ञानं सम्पद्यते । अत्र अनयोः वस्तुनोः यः साधारणः धर्मः अस्ति स एव अन्यपदार्थं ज्ञापयति । शात्रे तस्य लक्षणम् एवं उच्यते “उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः” इति । यं पदार्थं वर्णयति स उपमेयः । येन वर्णयति तत् उपमानम्। तयोः मध्ये यः समानांशः भाति स साधारणधर्मः । यथा “रामो राजीवलोचनः” इति । अस्मिन्नुदाहरणे रामस्य नयनं राजीवम् इव अस्ति इत्यर्थः । एवमेव सर्वत्र कमलम् उपमानत्वेन उपयुज्यते ।

श्रीरङ्गगुरोः वचनसारः “आपो नारा इति प्रोक्ताः” इत्यत्र नार इत्युक्ते जलम् । ‘नारायणः’ नाम जलमेव शयनं यस्य सः इति । कमलस्य उत्पत्तिरपि जले एव । अत एव कमलस्य जलजं नीरजं अम्बुजम् इत्यादि पर्यायपदानि । जले एव प्रादुर्भूय जले एव प्ररोह्य जलसम्बन्धिनः नारायणस्य सहचरि कमलम् । अतः कमलस्य भगवतः विशेषणत्वम् उपमानत्वम् च उचितमेव इति ।

सृष्टिमूलं कमलम्

सृष्टिकर्ता ब्रह्मापि कमले एव जन्म लेभे । तस्य ‘कमलोद्भवः’ इति नामान्तरम् अस्ति । अत एव सृष्टिमूलमपि कमलमॆव । लक्ष्म्याः नामापि ‘पद्मा कमला’ इत्येव । “पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षि । विष्णुप्रिये विष्णुमनोनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ।।“ इति सा आसने वासे करे पादे सर्वत्र पद्ममेव विधत्ते । यदा पत्नी कमलमिव भवति । तर्हि तस्या पतिः कीदृशः भवेत् ? भार्यायाः अनुरूप एव वरः पतिर्भवितुमर्हति । अतः नारायणोऽपि करकमलः पादकमलः पद्महस्तः राजीवलोचनः भवति ।

अपि च योगिनः मूलाधारादिष्ट्चक्रं कमलमिव पश्यन्ति । “सहस्रारे महापद्मे शिवेन सह मोदते (विष्णुना सह मोदते)” इत्यादि व्यवहारोऽपि परिदृश्यते च । एतत्तु कमलस्य अलौकिकी दृष्टिः । लौकिकदृष्ट्यापि कमलस्य प्राधान्यं वर्तत एव । प्राकृतिकविधिना कमलम् अतिकोमलम् सुगन्धः सुवर्णः मनोहरश्च भवति । आयुर्वेददृष्ट्यापि तत् कश्चनौषधिविशेषः । भगवदाराधने पुष्पपूजायामपि कमलं विशेषरूपेण समर्प्यते । अत एव अस्माकं भारतसर्वकारमपि एतान् समग्रान् अंशान् अवलोक्य राष्टियपुष्पमिति उद्घोषितमस्ति । एवं च कमलं सृष्टिमूलात् इदानीन्तनकालेऽपि । न । न । आचन्द्रार्कम् अतितरं स्थनमावहति ।


To know more about Astanga Yoga Vijnana Mandiram please visit our Official Website and Facebook page: