Tuesday, September 24, 2019

ज्ञानं-विज्ञानं (Jnaanam- vijnanam)

लेखकः – विद्वान् नरसिंह भट्टः 

ज्ञानं तथा विज्ञानम् इति पदद्वयम् अस्माभिः श्रुतप्रायम् । ज्ञानं प्रमा तथा विज्ञानं विशेषप्रमा इति साधारणतया ज्ञायते । अयं बालः इयं महिला इदं गृहम् इत्याकारकप्रतीतिविषयः ज्ञानमिति व्यवहरन्ति । ‘विज्ञानं शिल्पशास्त्रयोः’ इति अमरकोशे शिल्पादिकलासु तथा शास्त्रादि विद्यासु विज्ञानपदस्य प्रयोगः दृश्यते । अयमेव विशेषः अनयोः पदयोः भवेताम् अथवा अन्यः यः कोऽपि विशेषः अस्ति वा इत्यत्र अयं विचारः प्रवत्तः ।

पदनिष्पत्तिः-

ज्ञा – अवबोधने इति धातुना ल्युट् प्रत्यययोगेन ज्ञानशब्दस्य निष्पत्तिः । ‘मोक्षे धीर्ज्ञानम्’ इति अमरकोशरीत्या मोक्षविषयिका या बुद्धिः भवति तद् ज्ञानमिति व्यवह्रियते । ज्ञानपदेन ‘वि’ उपसर्गस्य योगः विज्ञानपदहेतुः । एवं च विज्ञाने ज्ञानमस्ति । ज्ञाने विज्ञानं भागशः अस्ति इति तयोः सम्बन्धः अनितरसाधारणः । तर्हि कथम् इति सुस्पष्टं ज्ञातव्यं भवति । एनं विषयम् अवगन्तुं बीजवृक्षयोः उदाहरणम् अवश्यम् अवगन्तव्यम् । अष्टाङ्गयोगविज्ञानमन्दिरस्य स्थापकाध्यक्षः श्रीरङ्गमहागुरुः इदमुदहारणम् बहुवारं स्वप्रवचनसन्दर्भे उद्धरन्ति स्म ।

बीजवृक्षन्यायः-    



बीजवृक्षन्यायः न केवलं ज्ञानविज्ञानविषयावगमने साध्यम् अपि तु भारतीयसंस्कृतिं बोद्धुम् । सामान्यतः विज्ञानपदम् आङ्ग्लभाषायां ‘सैन्स्’ इत्युच्यते एतत्तु आंशिकं न तु पूर्णम् । वस्तुतः विज्ञानपदस्य व्याप्तिः बह्वी । ऐन्द्रियकम् इन्द्रियातीतं च प्रपञ्चं व्याप्तम् इदं विज्ञानपदम् । तत्कथम् । उदाहरणार्थम् एकम् आम्रबीजं स्वीकुर्मः । बीजे यथा आम्रः इति व्यवहारः भवति तथा बीजात् अभिवर्धमानेषु शाखोपशाखाफलपुष्पादिषु भवति । अत्र आम्रत्वं बीजात् आबीजम् समानम् । तथैव ज्ञानं प्रथतया सृष्टिमूलस्य सच्चिदानन्दात्मकजगद्बीजे परब्रह्मणि प्रयुत्कम् । अत एवोच्यते उपनिषदि “ सत्यं ज्ञानमनन्तं ब्रह्म” इति । अतः परमात्मा ज्ञानपदबोध्यः । तेन भगवता इदं विश्वं प्रादुरभूत् । यथा आम्रबीजात् उत्पन्नं सर्वमपि आम्रं भवति भगवता उत्पन्नमखिलमपि जगत् विज्ञानपदबोध्यं भवति ।