Thursday, December 19, 2019

अर्थकामौ न केवलेन्द्रियार्थौ अपि तु पुरुषार्थौ (Arthakaamou na kevalendriyarthou api thu purushaartho)

लेखकः – विद्वान् नरसिंह भट्टः
प्रतिक्रियां दातुं शक्यते :  lekhana@ayvm.in

चत्वारः पुरुषार्थाः इति समेषां सामान्यजनानामपि ज्ञानमिदम् । ते च पुरुषार्थाः धर्मः अर्थः कामः मोक्षः इति । तत्राद्यः धर्मः । अन्त्यः मोक्षः । आद्यन्तौ उपादेयौ इत्यत्र नास्ति सन्देहः । सर्वे शास्त्रकाराः अपि मोक्ष एव चरमपुरुषार्थः स च सर्वैः अवश्यमधिगन्तव्यः इति एककण्ठेन उदघोषयन् । मोक्षसम्पादनार्थं धर्मोऽपि अनिवार्यः इति तेषामेव शास्त्रकाराणामाघोषः । परन्तु अत्र सन्देहस्य विषयस्तु अर्थकामौ कथं पुरुषार्थभूतौ इति ।
पुरुषः –जीवः तेन अर्थ्यते अपेक्ष्यते इति पुरुषार्थः । जीवस्य साहजिकीप्रवृत्तिः पुरुषार्थाणां सम्पादने भवत्येव । जीवेन यथा धर्ममोक्षौ साध्येते तथा अर्थकामावपि । यादृशौ अर्थकामौ जीवमूलभूतौ तादृशावेव सम्पादनीयौ भवतः । पुरुषः स्वाप्तिं प्राप्तुं साधनानि अपेक्षते । तानि साधनानि शरीरं तदन्तर्गतानीन्द्रियाणि मनः बुद्धिः इत्यादिरीत्या चतुर्दशतत्त्वरूपाणि । तैः एव एते चत्वारोऽपि पुरुषार्थाः साध्याः |
अत्रैव अर्थकामावपि पुरुषार्थौ इति मन्यन्ते । तर्हि एतौ कथं वा पुरुषार्थौ भवेताम् । यथा एतौ पुरुषार्थौ तथैव इन्द्रियार्थावपि । इन्द्रियद्वारा यदा अर्थः पुरुषेण विषयीभवति स च पुरुषार्थः भवति । यदा केवलम् इन्द्रिये एव अर्थस्य पर्यवसानं भवति तस्य न पुरुषार्थः इति व्यवहारः अपि तु इन्द्रियार्थः इति । यदा चेतनात्मकस्य पुरुषस्य समष्ट्या यत्कार्यसामान्यं स च पुरुषार्थः । एकं सुभाषितं स्मरामः यत्- “आहार-निद्रा-भय-मैथुनानि सामान्यमेतत्पशुभिर्नराणाम् ।“ इति । आहारादीनि यदा प्राणिसाम्यानि भवन्ति तदा तानीन्द्रियार्थानि भवन्ति । यदा एतान्येव ज्ञानसाधनत्वेन प्रयुक्तानि तदा तानि पुरुषार्थसाधकानि ।
धर्मानुगुणः मोक्षः साध्यः । तदर्थं ‘शरीरमाद्यं खलुधर्मसाधनम्’ इति रीत्या शरीरमतीवावश्यकम् । शरीरं विना मोक्षः न सिध्यत्येव । तर्हि शरीरं कथं संरक्षणीयं संवर्धनीयम् इति चेत् मोक्षसाधकत्वेन । शरीरपुष्टिः तुष्टिरेव न जीवनसाफल्यम् । शरीरपुष्ट्या पुरुषार्थः साधनीयः । अतः ज्ञानार्थं शरीरं तदर्थम् इन्द्रियार्थाणाम् आहारादीनाम् सङ्गहः । इन्द्रियार्थाणां सङ्गहार्थं कामः । एवं रीत्या अर्थकामसेवनम् अनुकूलाय कल्पते । अन्यथा धर्मं हित्वा केवलशरीरदृष्ट्या अर्थकामसेवनं नास्माकम् ऋषीणां सम्मतम् । निर्जीवदेहः किमपि नापेक्षते खलु । यथा ध्यान-तपो-यज्ञादिधर्माः पुरुषस्य अन्तरङ्गत्वेन सम्बन्धिनः तथा अर्थकामौ बहिरङ्गत्वेन सम्बन्धिनौ । एतौ न केवलौ देहधर्मौ पुरुषधर्मावपि । अत एव अर्थकामौ पुरुषार्थौ न केवलेन्द्रियार्थौ ।